Monday, October 1, 2018

TARA MAHAVIDHYA STOTRA

तारिणी तरला तन्वी तारा तरुण वल्लरी ।
तीर रूपा तरश्यामा तनुक्षीण पयोधरा ॥ १॥
तुरीया तरला तीव्र गमना नीलवाहिनी ।
उग्रतारा जया चण्डी श्रीमदेक जटाशिवा ॥ २॥
तरुणी शाम्भवी छिन्नमाला च भद्रतारिणी ।
उग्रा चोग्रप्रभा नीला कृष्णा नील सरस्वती ॥ ३॥
द्वितीया शोभिनी  नित्य नवीना नित्य नूतना ।
चण्डिका विजयाराध्या देवी गगन वाहिनी ॥ ४॥
अट्टहास्या करालास्या चरास्या दितिपूजिता ।
सगुणा सगुणाराध्या हरीन्द्र देव पूजिता ॥ ५॥
रक्त प्रिया च रक्ताक्षी रुधिरासवभूषिता  ।
बलिप्रिया बलिरता दुर्गा बलवती बला ॥ ६॥
बलप्रिया बलरता बलराम प्रपूजिता ।
अर्धकेशेश्वरी केशा केशवेश विभूषिता ॥ ७॥
पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिता ।
दक्षिणा चैव दक्षा च दक्षजा दक्षिणेतरा  ॥ ८॥
वज्रपुष्प प्रिया रक्तप्रिया कुसुमभूषिता ।
माहेश्वरी महादेवप्रिया पद्मविभूषिता ॥ ९ ॥
इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी ।
गान्धारी पञ्चमी पञ्चानना दि वरि पूजिता ॥ १०॥
इत्येतत्कथितं देवि रहस्यं परमाद्रुतम  ।
श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १
य इदं पठति स्तोत्रं तारास्तुति रहस्यकम् ।
सर्वसिद्धि युतो भूत्वा विहरेत् क्षितिमण्डले ॥ १
तस्यैवं  मन्त्रसिद्धिः स्यान्मम सिद्धिरनुत्तमा ।
भवत्येवं  महाभागे  सत्यं सत्यं न संशयः ॥ १
मन्दे मङ्गलवारे च यः पठेन्निशि संयतः ।
तस्मैव  मन्त्रसिद्धि: स्मादगानयत्मं   लभेत्तुस: ॥ १
श्रद्धयाऽनद्धया  वापि पठेनुतारारहस्यकम ।
अचिरनैव कालेन जीवन्मुक्तः शिवो भवेत् ॥
सहस्रावर्तनाद्देवि पुरश्चर्या फलं लभेत् ।
एवं सतत युक्ता ये ध्यायन्तस्त्वामुपासते 
ते शिवो भवेत सहस्रावर्तनाद्देविपुरश्चर्याफलंलभेत् 

No comments:

Post a Comment